Logo

वसन्त पन्चमिको शुभकामना ! सरस्वती वन्दना – सेयर गरौ

सरस्वती माया दृष्टा विणा पुस्तकधारिणी। हंस वाहन संयुक्ता विद्यादानं कराेतुमे ॥ प्रथमं भारती नाम, द्वितीयं च सरस्वती । तृतीयं शारदा देवी, चतुर्थं हंसवाहिनी ॥ पञ्चमन्तु जगन्माता, षष्ठं वागीश्वरी तथा । सप्तमं कौमुदी प्रोक्ता, अष्टमं ब्रहचारिणी ॥

नवमं बुद्धिदात्री च, दशमं वरदायिनी । एकादशं चन्द्रघण्टेती, द्वादशं भुवनेश्वरी ॥ द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः । जिह्वाग्रे वसते नित्यं ब्रह्म रूपा सरस्वती ॥

या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता । या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ॥ या ब्रह्माच्युत शंकरप्रभृतिभिर्देवैः सदा वन्दिता । सा माम् पातु सरस्वती भगवती निःशेषजाड्यापहा ॥१।।

शुक्लां ब्रह्मविचारसारपरमाद्यां जगद्व्यापिनीं । वीणा-पुस्तक-धारिणीमभयदां जाड्यांधकारपहाम् ।। हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थितां । वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ।।२।।

प्रतिक्रिया दिनुहोस्